|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.42. अध्यायः 042
Mahabharata - Drona Parva - Chapter Topics
स़ञ्जयेन धृतराष्ट्रं प्रति अभिमन्युमनुगतानां जयद्गथेन निरोधकथनम्॥ 1 ॥ तथा जयद्गथस्य रुद्रात् पाण्डवनिरोधरूपवरलाभकथनम्॥ 2 ॥

Mahabharata - Drona Parva - Chapter Text
धृतराष्ट्र उवाच। 7-42-0x(4362)(46512)
बालमत्यन्तसुखिनं स्वबाहुबलदर्पितम्।
युद्धेष्वकुशलं वीरं कुलपुत्रं तनुत्यजम्॥ 7-42-1(46513)
गाहमानमनीकानि सदश्वैश्च त्रिहायनैः।
अपि यौधिष्ठिरात्सैन्यात्कश्चिदन्वपतद्बली॥ 7-42-2(46514)
सञ्जय उवाच। 7-42-3x(4363)
युधिष्ठिरो भीमसेनः शिखण्डी सात्यकिर्यमौ।
धृष्टद्युम्नो विराटश्च द्रुपदश्च सङ्केकयः॥ 7-42-3(46515)
धृष्टकेतुश्च संरब्धो मात्स्याश्चाभ्यपतन्रणे।
तेनैव तु पथा यान्तः पितरो मातुलैः सह॥ 7-42-4(46516)
अभ्यद्रवन्परीप्सन्तो व्यूढानीकाः प्रहारिणः।
तान्दृष्ट्वा द्रवतः शूरांस्त्वदीया विमुखाऽभवन्॥ 7-42-5(46517)
ततस्तद्विमुखं दृष्ट्वा तव सूनोर्महद्बलम्।
जामाता तव तेजस्वी संस्तम्भयिषुराद्रवत्॥ 7-42-6(46518)
सैन्धवस्य महाराज पुत्रो राजा जयद्रथः।
स पुत्रगृद्धिनः पार्थान्सहसैन्यानवारयत्॥ 7-42-7(46519)
उग्रधन्वा महेष्वासो दिव्यमस्त्रमुदीरयन्।
वार्धक्षत्रिरुपासेधत्प्रवणादिव कुञ्जरः॥ 7-42-8(46520)
धृतराष्ट्र उवाच। 7-42-9x(4364)
कतिभारमहं मन्ये सैन्धवे सञ्जयाहितम्।
यदेकः पाण्डवान्क्रुद्धान्पुप्रेप्सूनवारयत्॥ 7-42-9(46521)
अत्यद्भुतमहं मन्ये बलं शौर्यं च सैन्धवे।
तस्य प्रब्रूहि मे वीर्यं कर्म चाग्र्यं महात्मनः॥ 7-42-10(46522)
किं जप्तं हुतमिष्टं वा किं सुतप्तमथो तपः।
`दमो वा ब्रह्मचर्यं वा सूत यच्चास्य सत्तम॥ 7-42-11(46523)
देवं कतममाराध्य विष्णुमीशानमब्जजम्।
सिन्धुराट् तनये सक्तान्क्रुद्धान्पार्थानवारयत्॥ 7-42-12(46524)
नैवं कृतं महत्कर्म भीष्मेणाज्ञासिषं तथा'।
सिन्धुराजो हि येनैकः पाण्डवान्समवारयत्॥ 7-42-13(46525)
सञ्जय उवाच। 7-42-14x(4365)
द्वीपदीहरणे यत्तद्भीमसेनेन निर्जितः।
मानात्स तप्तवान्राजा वरार्थी सुमहत्तपः॥ 7-42-14(46526)
इन्द्रियाणीन्द्रियार्थेभ्यः प्रियेभ्यः सन्निवर्त्य सः।
क्षुत्पिपासातकपसहः कृशो धमनिसन्ततः॥ 7-42-15(46527)
देवमाराधयच्छर्वं गृणन्ब्रह्म सनातनम्।
भक्तानुकम्पी भगवांस्तस्य चक्रे ततो दयाम्॥ 7-42-16(46528)
स्वप्नान्तेऽप्यथ चैवाह हरः सिन्धुपतेः सुतम्।
वरं वृणीष्व प्रीतोऽस्मि जयद्रथ किमिच्छसि॥ 7-42-17(46529)
एवमुक्तस्तु शर्वेण सिन्धुराजो जयद्रथः।
उवाच प्रणतो रुद्रं प्राञ्जलिर्नियतात्मवान्॥ 7-42-18(46530)
पाण्डवेयानहं सङ्ख्ये भीमवीर्यपराक्रमान्।
वारयेयं रथेनैकः समस्तानिति भारत॥ 7-42-19(46531)
एवमुक्तस्तु देवेशो जयद्रथमथाब्रवीत्।
ददामि ते वरं सौम्य विना पार्थं धनञ्जयम्।
वारयिष्यसि सङ्ग्रामे चतुरः पाण्डुनन्दनान्॥ 7-42-20(46532)
`एकाहमिति राजेन्द्र तत्रैवान्तरधीयत'।
एवमस्त्विति देवेशमुक्त्वाबुद्ध्यत पार्थिवः॥ 7-42-21(46533)
स तेन वरदानेन दिव्येनास्त्बलेन च।
एकः संवारयामास पाण्डवानामनीकिनीम्॥ 7-42-22(46534)
तस्य ज्यातलघोषेण क्षत्रियान्भयमाविशत्।
परांस्तु तव सैन्यस्य हर्षः परमकोऽभवत्॥ 7-42-23(46535)
दृष्ट्वा तु क्षत्रिया भारं सैन्धवे सर्वमाहितम्।
उत्क्रुश्याभ्यद्रवन्राजन्येन यौधिष्ठिरं बलम्॥ ॥ 7-42-24(46536)
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रयोदशदिवसयुद्धे द्विचत्वारिंशोऽध्यायः॥ 42 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-42-8 प्रवणान्निम्नप्रदेशं प्नाप्य॥ 5-42-10 बलं सामर्थ्यम्। शौर्यमुत्साहः वीर्यं प्रभावम्॥ 5-42-42 द्विचत्वारिंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|